arrow

उर्दू तुर्की भाषाभ्यां सदृश: संस्कृत भाषाया: पुनरुत्थान: सम्भव: ?

logo
लक्ष्मण: न्यौपाने:
प्रकाशित २०७६ जेठ १५ बुधबार
sanskrit_(1).jpg

नूतन देहली । संस्कृतस्य पुनः प्रतिष्ठार्थम् अनेके जनाः प्रयतमानाः आसन् अनेके जनाः साम्प्रतम् अपि प्रयतमानाः सन्ति । तथापि संस्कृतं स्वकीयं योग्यं स्थानं न प्राप्नोत् अस्य कारणम् एतदेव वक्तुं शक्यते यत् रोगस्य निदानार्थ यावद् औषधम् आवश्यकम् आसीत् तत् साम्प्रतम् अपि अप्राप्तम् एव । पूर्वकाले तु संस्कृतस्य गौरवास्पदं स्थानम् आसीदेव तस्य उदाहरणानि तु एतानि एव सन्ति विश्वे कस्यामपि भाषायाम् एतावत्यः पाण्डुलिपयः न स्युः । यथा संस्कृते वर्तन्ते। अद्यापि लक्षशः पाण्डुलिपयः सन्ति यासां प्रकाशनम् एव न जातम् अस्ति।

अन्यच्च, नास्ति एतादृशः कश्चन विषयः येन सम्बद्ध किमपि पुस्तकं संस्कृते न भवेत्। सर्वेषाम् आधुनिकविज्ञानस्य विषयाणाम् अपि स्रोतांसि अपि संस्कृते उपलभ्यन्ते एव । संस्कृतं कस्यचित् प्रान्तस्य भाषा नास्ति अपितु सम्पूर्णस्य देशस्य एव भाषा अस्ति। सम्पूर्ण देशे संस्कृतं प्रति समादरः सन्ति अस्यापि कश्चन जनः भारतं भ्रमित्वा अवलोकनं कर्तुं शक्नोति। अनेक जनाः संस्कृतोन्नत्यै स्वजीवनं यापितवन्तः सन्ति, साम्प्रतम् अपि यापयन्ति तथापि संस्कृतं स्वकीयं योग्यं स्थानं प्राप्तुं नाशक्नोत् । अस्मिन् विषये यदि वयं विचारयामः तर्हि दृष्टिपथम् आयाति यत् कस्याश्चित् भाषायाः प्रसाराय कानिचित् कारणानि भवन्ति यानि तां भाषाम् उन्नतिशिखरं प्राप्नुवन्ति।

तेषु एकं कारणम् राज्याश्रयः अस्ति। कमालपाशाः अकस्मात् तुर्की देशे फ्रेञ्चभाषायाः स्थाने तुर्कभाषां राजभाषा र कृतवान् आसीत्। मुगलशासने अरबीलिपियुक्ता उर्दू भाषा राज्याश्रयं प्राप्य एव देशस्य राजभाषा अभूत् यस्याः प्रभावः साम्प्रतम् अपि न्यायालयीयकार्येषु अन्येषु अपि राज्यकार्येषु द्रष्टु शक्यते । भारते नेपाले च सत्यपि संस्कृतानुराग कश्चन एतादृशः शासकः न अभूत् यः अकस्मात् संस्कृतं राजभाषां कुर्यात् । संस्कृतनाम्ना राजनीतिं कृत्वा मतानि तु सर्वाणि एव दलानि इच्छन्ति किन्तु तादृशीम् इच्छाशक्तिं कश्चन अपि न प्रदर्शयति।

अन्येषु कारणेषु अस्ति तस्याः भाषायाः माध्यमेन पाठनम् । भारते यद्यपि संस्कृतभारतीत्यादीनां संघटनानां कारणात् यत्र तत्र प्रयत्नः प्रचलन् अस्ति किन्तु सर्वत्र एतादृशी स्थितिः नास्ति यत् संस्कृतमाध्यमेन भाषायाः पाठनं भवेत्। एतत् सबलं माध्यमम् अस्ति। अनेन सा भाषा शीघ्रमेव देशव्यापिनी भवति यया शिक्षा दीयते। अस्माकं देशे तु सर्वे संस्कृतशिक्षकाः अपि संस्कृतेन न पाठ्यन्ति। यद्यपि अनेके इच्छन्तः सन्ति किन्तु प्रशिक्षणाभावेन ते एवं कर्तुं न शक्नुवन्ति । तर्हि यदि वयं संस्कृतस्य उन्नतिम् इच्छामः तर्हि आवश्यकम् अस्ति यत् संस्कृतशिक्षकाणां प्रशिक्षणस्य व्यवस्था भवेत् येन ते संस्कृतमाध्यमेन पाठयितुं शक्नुयुः ।

सर्वकारः संस्कृतशिक्षकेभ्यः पुरस्कारान् ददाति ते पुरस्काराः तेषां शिक्षकाणां कृते एव स्युः ये संस्कृतस्य प्रचारप्रसाराय अध्यापनाद् अतिरिक्तम् अपि समयं प्रयासं वा कुर्वन्तः स्युः। एवमेव प्रत्येक स्तरे संस्कृतपाठनस्य व्यवस्था आवश्यकी अस्ति। साम्प्रतं तु विद्यालयेषु संस्कृतशिक्षकाः एव पूर्णाः न सन्ति तर्हि र संस्कृतोन्नतिः कथं भविष्यति। संस्कृतस्य दूरदर्शनवाहिनी अपि अस्यां दिशि महत्त्वपूर्ण योगदानं कर्तुं शक्नोति। 

सर्वासु भाषासु दूरदर्शनवाहिन्यः सन्ति तर्हि किमर्थ सर्वकारः संस्कृतस्य र दूरदर्शनवाहिनीं न करोति इति चिन्तायाः विषयः अस्ति। अनेन माध्यमेन संस्कृतस्य प्रचार प्रसारः लूलमेव भविष्यति। सामाजिकस्तरे वयं सङ्कोचं विहाय संस्कृतेन व्यवहर्तुं वे शक्नुमः चेत् जनेषु अपि आत्मविश्वासः जागर्ति। संस्कृतशिक्षकाः संस्कृतस्य कृते यथाशक्ति अन्यान् निःशुल्क पाठयित्वा, समयं ध्यानं च प्रदाय संस्कृतसेवाम् आरभन्ते चेत् संस्कृतस्य सुदिनम्। अपि शीघ्रमेव आगमिष्यति।

भावार्थ 
संस्कृत भाषालाई पुनः अस्तित्वमा ल्याउनको लागि धेरै मानिसहरु अहिले पनि प्रयासरत छन् । तथापि संस्कृतले अहिले आफ्नो योग्य स्थान पाउन सकेको छैन । त्यसैले हामी संस्कृतलाई यो पनि भन्न सक्दछौं कि संस्कृतमाति लागेको रोगको निदानको लागि यावत औषधिहरु आवश्यक रहेको छ । तर, संस्कृतले अलिकति पनि पाउन सकेको छैन । परापूर्व कालमा त संस्कृतको गौरवमय पद मिल्ने गरेको थियो । यसको उदाहरणको लागि हामी यो देख्न सक्छौं संस्कृत भाषामा जति पाण्डुलिपीहरु अन्य कुनैपनि भाषामा लेखिएकोछैन । यद्यपि धेरै पाण्डुलिपीहरु प्रकाशन हुनुपूर्व नै नष्ट भए । 

संसारमा यस्तो कुनैपनि विषय नहोला जुन संस्कृत पुस्तकमा नभएको होस् । सबै आधुनिक विज्ञानको विषयमा समेत स्रोतहरु संस्कृत ग्रन्थमा भेटिन्छ । संस्कृत कुनैपनि प्रान्तको मात्रै भाषा होईन । यो सम्पूर्ण देशको भाषा हो । सम्पूर्व देशहरुमा संस्कृत प्रति समादर भाव देखिन्छ । नेपाल र भारत लगायतका देशहरुमा त आफ्नो जीवनको कामकाजको भाषा समेत बनाउने गरिएको छ । तर पनि संस्कृतले आफैंमा योग्य स्थान पाउन सकेको छैन । यो विषयमा यदि हामी सोच विचार राख्दछौं भने मात्रै हामी यसलाई कसरी प्रसार गरेर यो भाषालाई उन्नति शिखरमा पुर्याउन सक्दछौं ? भन्ने विषय देख्न सक्दछौं । 

संस्कृतको संरक्षणको एक मात्र कारण राज्याश्रय हो । उदाहरणको लागि टर्कीमा एकताका फ्रेन्च भाषाको दबदबा थियो । तर, एक्कासी राज्यले तुर्क भाषालाई राजभाषाको रुपमा मान्ने निर्णय गर्यो । मुगल शासनमा अरबी लिपिमा लेखिने उर्दूभाषा राजभाषाा भयो । अहिले सो भाषाको प्रयोग न्यायालयमा समेत अन्य राज्य कार्यको लागि समेत प्रयोग गर्ने गरिएको छ । भारत र नेपालमा समेत संस्कृत अनुरागी यस्ता शासकहरु कोही पनि भएनन् । जसले अकस्मात् संस्कृतलाई राजभाषा स्वीकार गरोस् । संस्कृतको नाममा राजनीति गरेर सबै दलहरुले शासनसत्ता समेत सम्हालिसकेका छन् । विशेषगरी भारतमा अहिले पनि सोही अवस्था छ । यद्यपि उनीहरुमा केही पनि इच्छाशक्ति देखिँदैन । 

अर्को संस्कृतलाई कमजोर बनाउने कारण हो यस भाषाको माध्यमले पढाउन नसक्नु । भारतमा यद्यपि संस्कृत भारती आदि संस्थाहरुको कारणले यत्र तत्र संस्कृत भाषा बोल्ने प्रयत्न त चलिरहेको छ । तर, सबैतिर यस्तो स्थिति देखिँदैन । जहाँ संस्कृतको माध्यमबाट भाषा पढाईयोस ् । यदि संस्कृतको शिक्षा सबैतिर दिने हो भने यो भाषा यथाशीघ्र देशव्यापी बन्न सक्थ्यो । तर, विडम्बना हाम्रा संस्कृत शिक्षकहरुलाई नै संस्कृत बोल्न आउँदैन । त्यसैले यसको लागि सबैभन्दा पहिले संस्कृत शिक्षक शिक्षिकाहरुलाई सम्भाषण तालिम दिनुपर्ने देखिन्छ । 
 



लोकप्रिय समाचार
लोकप्रिय समाचार
नयाँ