- सुन चाँदी दर
- विनिमय दर
- नेपाली पात्रो
- राशिफल
काष्ठमण्डप:। रत्नगर्भा कश्मीरभूमिः प्राचीनकालादेव विश्वाय असंख्यानि रत्नानि समर्पितवती ये स्वाध्यात्मिकज्ञानसाधनायाः पराकाष्ठायाः प्रत्यक्षानुभवस्य च आधारेण विश्वाय एकं नूतनं मार्गदर्शनं कृतवन्तः। कश्मीरेषु अनेकानि मतानि सम्प्रदायाः च समुद्भूताः। अनेकवारं व्यवस्थापरिवर्तनं च सञ्जातं किन्तु तत् पुरातनास्तित्वस्य विनाशकं न आसीत्।
आचार्यः अभिनवगुप्त पादाचार्यः अस्या शृङ्खलायाः एव एकः वलयः अस्ति। सः भारतस्य महतः दार्शनिक-साहित्यिकज्ञानस्य समीक्षकः आसीत्। सः शैवमतानुयायी प्रखरः विद्वान् आसीत्। आचार्यः अभिनवगुप्तः अद्वैतदर्शनस्य आगमस्य प्रत्यभिज्ञादर्शनस्य प्रतिनिधि-आचार्यः तु अस्ति एव तस्मिन् अधिकाधिकज्ञानविधानां समावेशः दृश्यते।
भारतीयज्ञानपरम्परायाः विविधाः धाराः तस्य व्यक्तित्वस्य अभिन्नानि अङ्गानि प्रतीयन्ते। सः सङ्गीतज्ञः, कविः, नाटककारः, धर्मशास्त्री, तर्कशास्त्री च आसीत्। एतत् वर्षं तस्य जन्मनः सहस्राब्दः वर्तते। तस्य दर्शनं रससिद्धान्तः केवलं भारते एव न अपितु सम्पूर्णे विश्वे पाठ्यते किन्तु खेदस्य विषयः अस्ति यत् एतादृशस्य विदुषः विषये अद्य कश्मीरेषु कांश्चन पण्डितजनान् अतिरिच्य सामान्यजनाः जानन्ति एव न। कश्मीरविश्वविद्यालये एव तस्य विषये जनाः न जानन्ति। तत्र तस्य ग्रन्थानाम् अध्ययनस्य काचिदपि व्यवस्था नास्ति। एतादृशाः विद्वांसः सदा सर्वदा न जायन्ते। वयं धन्याः स्मः यत् एतादृशस्य महापुरुषस्य सहस्राब्दायोजकाले तं स्मरामः।
जीवनवृत्तम्
अस्य जन्म दशमशताब्द्याः मध्यभागे (९५० ई.-९६० ई.) अभूत्। अस्य कुलं स्वविद्वत्तायाः तन्त्रसाधनायाः च कृते कश्मीरेषु विख्यातम् आसीत्। अस्य पितामहः वराहगुप्तः आसीत्। पिता नरसिंहगुप्तः उपाख्यः चुखुलः चुखुलकः वा व्याकरणशास्त्रस्य प्रख्यातः विद्वान् आसीत्। अभिनवगुप्तस्य पूर्वजः अत्रिगुप्तः कान्यकुब्जस्य (कन्नौजस्य) शासकस्य यशोवर्मणः राजसभायां प्रतिष्ठितः विद्वान् आसीत्। कश्मीरनरेशः दिग्विजयी ललितादित्य मुक्तपीडः यदाः ७४० ईसवीये वर्षे कान्यकुब्जं जित्वा कश्मीरेषु मेलितवान् तदा सः अत्रिगुप्तं काश्मीरेषु निवासस्य प्रार्थनां कृतवान्। वितस्तानद्याः झेलमनद्याः) तटे भगवतः शितांशुमौलेः शिवस्य मन्दिरस्य सम्मुखम् एकं विशालं भवनम् अत्रिगुप्तस्य निवासस्य कृते तेन निर्मापितम्। अस्मिन् एव यशस्विनि कुले अभिनवगुप्तस्य जन्म अत्रिगुप्तस्य कश्मीरवासात् प्रायः २०० वर्षेभ्यः अनन्तरं ९५० ईसवीये वर्षे अभवत्। तस्य माता योगिनी विमला कला आसीत् यस्याः मृत्युः अस्य बाल्यकाले एव अभूत्।
बाल्यकाले अभिनवगुप्तः दुर्ललितः आसीत्। अस्य गुरवः तस्य नामकरणं कृतवन्तः अभिनवगुप्तपादः। गुप्तपादः संस्कृते सर्पस्य पर्यायः भवति। जीवनस्य प्रौढे काले अपि सः गुरुभ्यः प्रदत्तं नाम रक्षितवान्। अनेन नाम्ना एव सः स्वविद्वत्तया परमं यशः लेभे। भगवान् पतञ्जलिः इव अभिनवगुप्तः अपि शेषावतारः कथ्यते। शेषः ज्ञानसंस्कृत्योः रक्षकः अस्ति। अभिनवगुप्तस्य टीकाकारः आचार्यः जयरथः तं ‘‘योगिनीभूः’’ इत्युक्त्वा सम्बोधितवान्। अनेन रूपेण सः शिवावताररूपेण प्रतिष्ठितः अस्ति।
शिक्षादीक्षा
तस्य ज्ञानस्य प्रामाणिकता अस्मिन् सन्दर्भे अस्ति यत् सः स्वकालस्य मूर्धन्याचार्येभ्यः ज्ञानस्य विविधविधानां दीक्षां प्राप्तवान्। अभिनवगुप्तः नवानां स्वगुरूणां नामानि उक्त्वा तेभ्यः अधीतशास्त्राणाम् अपि उल्लेखं कृतवान् अस्ति। व्याकरणस्य शिक्षां सः स्वपितुः नरसिंहगुप्तात् प्राप्तवान्। तस्मिन् ज्ञानपिपासा तथा अधिका आसीत् यत् ज्ञानप्राप्त्यर्थं सः कुत्राSपि गन्तुं सिद्धः आसीत्। अतएव जालन्धरपीठस्य आचार्य शम्भुनाथात् सः कौलसम्प्रदायस्य शिक्षाम् उपासनासिद्धान्तान् च शिक्षितवान्। शम्भुनाथः अर्धत्र्यम्बकमतस्य सुप्रसिद्धः आचार्यः आसीत्।
प्रत्यभिज्ञाशास्त्रस्य (त्रिकशास्त्रस्य) क्रमस्य च दीक्षां सः लक्ष्मणगुप्तात्, वामनाथात् द्वैताद्वैततन्त्रस्य, ब्रह्मविद्यायाः भूतिराजात्, ध्वनिसिद्धान्तस्य भट्टेन्द्रराजात्, नाट्यशास्त्रस्य शिक्षां भट्ट तौतात् कृतवान्। आहत्य तस्य गुरूणां संख्या प्रायः 20 भवति।
ग्रन्थरचना
अभिनवगुप्तः तन्त्रशास्त्रस्य, साहित्यस्य, दर्शनस्य च प्रौढाचार्यः आसीत्। ज्ञानपिपासुः अभिनवगुप्तः अविवाहितः भूत्वा १९ गुरुभ्यः ज्ञानं प्राप्तवान्। शैवदर्शनस्य प्रत्येकस्मिन् आयामे सः लिखितवान्। तेन रचितान् मौलिकग्रन्थान्, टीकाः, स्तोत्राणि च संयोज्य प्रायः 50 पुस्तकानि सः रचितवान्। तेन रचितानां ग्रन्थानां विषये वयं ग्रन्थस्य विषयानुसारं विवेचनं कुर्मः।
तन्त्रशास्त्रीयग्रन्थाः - कश्मीरपरम्परायामेव तन्त्रशास्त्रस्य विशिष्टं महत्त्वम् अस्ति। सः तन्त्रशास्त्राणाम् गहनम् अध्ययनं कृत्वा प्राचीनतन्त्रगन्थानां व्याख्याः कृतवान्। अनेन माध्यमेन सः तन्त्रशास्त्रविषये व्याप्तानां भ्रान्तधारणानां निर्मूलनम् अपि कृतवान्। अस्मिन् विषये तस्य रचनाः सन्ति - बोधपञ्चदशिका, मालिनीविजयः, कार्तिकः, परात्रिशिकविवरणं, तन्त्रालोकः, तन्त्रसारः, तन्त्रोच्चयः, तन्त्रोवटधानिका, तन्त्रालोकत्रिकः च। एते ग्रन्थाः तन्त्रसिद्धान्तस्य प्रक्रियानां तत्सम्बद्धविभिन्नमतानां च पूर्णविवरणं प्रस्तुवन्ति।
अलङ्कारग्रन्थाः -
अलङ्कार-शास्त्रविषयकाः तस्य ग्रन्थत्रयम् उपलभ्यते ते सन्ति काव्यकौतुकविवरणम्, ध्वन्यालोकलोचनम्, अभिनव-भारती च। काव्यकौतुक -विवरणम् अभिनवगुप्तस्य नाट्यशास्त्रगुरोः भट्ट तौतस्य अनुलब्धा प्रख्यातकृतिः अस्ति यस्याम् अस्य विवरणस्य सङ्केतः एव प्राप्यते, साम्प्रतम् अयं ग्रन्थः अनुपलब्धः अस्ति। आनन्दवर्धनाचार्यप्रणीतस्य ध्वन्यालोकस्य लोचनाख्या टीका एकः प्रौढः व्याख्यानग्रन्थः अस्ति। यस्य माध्यमेन सः ध्वनिसिद्धान्तस्य परिपुष्टिं तु कृतवान्। अभिनवभारती भरतमुनिप्रणीतस्य नाट्यशास्त्रस्य पाण्डित्यमयी एकमात्रटीका अस्ति। भरतमुनेः रससूत्राणां व्याख्या अभिव्यक्तिवादनाम्ना विश्वप्रसद्धा अस्ति।
दर्शनग्रन्थाः -
तर्कपूर्णरीत्या परमतस्य खण्डनं स्वमतस्य मण्डनम् अस्य युगस्य विशिष्टता आसीत्। दर्शनविषयकाः तस्य प्रख्याताः ग्रन्थाः सन्ति - भगवद्गीतार्थसंग्रहः, परमार्थसारः, ईश्वर-प्रत्यभिज्ञा - विमर्शिणी, ईश्वर-प्रत्यभिज्ञा- विवृति- विमर्शिणी च। कश्मीरस्य शारदाक्षेत्रे यावन्तः आचार्याः समुत्पन्नाः न तावन्तः देशस्य कस्मिन्नपि एकस्मिन् भागे। अभिनवगुप्तस्य यथा गुरुपरम्परा श्लाघ्या अस्ति तथैव तस्य शिष्यपरम्परा अपि गौरवशालिनी अस्ति। तस्य प्रमुखेषु शिष्येषु क्षेमराजः, क्षेमेन्द्रः, मधुराजयोगी च वर्तन्ते। इयमेव परम्परा 12 शताब्द्यां समुत्पन्नं सुभटदत्तं, जयरथं, शोभाकरगुप्तं, महेश्वरानन्दं 18 शताब्द्यां च समुत्पन्नं भास्कण्ठाचार्यं स्वामि लक्ष्मणजूवर्यं यावत् प्राप्नोति।
महाप्रयाणम् -
कश्मीरजनानां मान्यता- नुसारं जीवनस्य लक्ष्यं पूरयित्वा सः एकस्मिन् दिने स्वकीयैः 1200 शिष्यैः सह भैरवगुहां प्रविष्टवान्। सः ततः बहिः न निर्गतवान् अपितु शिवमयः सञ्जातः। अस्याः घटनायाः सहस्रवर्षाणि पूर्णतां यान्ति अतः अस्माकं कर्तव्यं यत् वयं तस्य विचाराणां प्रचारं कश्मीरेण सह सम्पूर्णे विश्वे कुर्याम।
भावार्थ :
प्राचीनकालमा रत्न गर्भभूमि काश्मिरले विश्वको असंख्य रत्नहरु उत्पादन गर्यो । स्वाध्यायन र साधनासँगै प्रत्यक्ष अनुभवको आधारमा पनि यो भूमि विश्वको एक नयाँ मार्गदर्शन गर्ने भूमिको रुपमा विकास भएको छ ।यही काश्मिरबाट अनेक साम्प्रदायिक मतको पनि सुरुवात भएको छ । यहाँकै विद्वानहरुका कारण भारतमा कैंयौं पटक राज्य व्यवस्था परिवर्तनको स्थिति समेत सिर्जना भएको छ ।
यही श्रृङ्खलामा आचार्य अभिनवगुप्त पादाचार्यः पनि एउटा यस्ता हस्ति हुन् जसले पूर्वीय साहित्य र भारत वर्षलाई विश्वमा चिनाउनको लागि महत्वपूर्ण भूमिका खेलेका छन् । उनी भारतको महान् दार्शनिक एवं साहित्यिक ज्ञानका समीक्षक समेत हुन् । उनी शैव सम्प्रदायका प्रखर विद्वान एवं अनुयायी थिए । आचार्य अभिनव गुप्त अद्वेत दर्शनको प्रत्याभिज्ञादर्शनको प्रतिनिधि समेत थिए । त्यसमा उनको धेरै भन्दा धेरै विद्वता समावेश भएको देखिन्छ ।
भारतीय ज्ञान परम्पराको विभिन्न धाराहरु उनको व्यक्तित्वको अभिन्न अङ्ग मानिन्छ । उनी संगीतज्ञ, कवि, नाटककार, धर्मशास्त्री, तर्कशास्त्री समेत थिए । यही समय ताका उनको जन्मको हजार वर्ष पूरा हुँदैछ । उनको स्पष्ट जन्म मितिबारे कुनै जानकारी नभएपनि उनलाई ९५० ई - ९६० ई को समयको मान्ने गरिएको छ। उनको दर्शनशास्त्र रससिद्धान्त केवल भारतमा मात्रै नभएर विश्वभर पठन पाठन हुने गर्दछ । तर, चिन्ताको विषय यो हो कि उनलाई भारत र विशेषगरी काश्मिरले विर्सिनै लागिसकेको छ । काश्मिरका अधिकांश विद्वानहरु उनलाई चिन्दैनन् भने विश्वविद्यालयमा पनि एकाधबाहेक धेरैलाई उनको बारेमा थाहा छैन ।